उत्तरप्रदेशसंस्कृतसंस्थानस्य स्थापना संस्कृतभाषाया- संस्कृतवाड्मयस्य च संरक्षणाय प्रसाराय विकासाय च उत्तरप्रदेशप्रशासनेन 1976 तमे ख्रीष्टाब्दे दिसम्बरमासस्य 31 तमे दिनाड्के विहिता। संस्थानेन विशिष्ट-संस्कृत-विद्वांस: रचनाकारा: वेदपण्डिताश्च पुरस्कारप्रदानेन सम्मान्यन्ते। संस्कृत-पालि-प्राकृत-भाषाणां दुर्लभा: महत्वपूर्णहस्तलिखित- ग्रन्था: संरक्ष्यन्ते।
संस्थानेन यथावसरे संस्कृतसंस्कृतिविषयेषु व्याख्यानायोजनानि विधीयन्ते। उत्तरप्रदेशसंस्कृतसंस्थानं समानधर्मिसंस्थाभि:
सह विनिमयेन संस्कृतभाषाया: संस्कृतेश्च परिवर्धनाय कृतसंकल्पमस्ति।
जनसामान्य के उपयोगार्थ संस्थान विषयक विस्तृत जानकारी हिन्दी भाषा के माध्यम से
आगे/सूच्य पृष्ठों के माध्यम से प्रस्तुत है।